||Sundarakanda ||

|| Sarga 37||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||ओम् तत् सत्॥

सुन्दरकांड.
अथ सप्तत्रिंशस्सर्गः

सीता तद्वचनं श्रुत्वा पूर्णचंद्र निभानना।
हनूमंत मुवाचेदं धर्मार्थसहितं वचः॥1||

अमृतं विषसंस्पृष्टं त्वया वानरभाषितम्।
यच्च नान्यमना रामो यच्च शोकपरायणः॥2||

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे।
रज्ज्वेव पुरुषं बद्ध्वा कृतांतं परिकर्षति॥3||

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तमः।
सौमित्रं मां च रामं च व्यसनैः पश्य मोहितान्॥4||

शोकस्यास्य कदा पारं राघवोsधिगमिष्यति।
प्लवमानः परिश्रांतो हतनौ स्सागरे यथा॥5||

राक्षासानां वधं कृत्वा सूदयित्वा च रावणं।
लंका मुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः॥6||

स वाच्य स्संवत्सर स्वेति याव देव न पूर्यते।
अयं संवत्सरः कालः तावद्धि मम जीवितम्॥7||

वर्तते दशमे मासो द्वौतु शेषौ प्लवंगम।
रावणेन नृशंसेन समयो यः कृतो मम॥8||

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम्॥9||

मम प्रति प्रदानं हि रावणस्य न रोचते।
रावणं मार्गते संख्ये मृत्युः कालवशं गतम्॥10||

ज्येष्ठा कन्याsनला नाम विभीषण सुता कपे।
तया ममेद माख्यातं मात्रा प्रहितया स्वयम्॥11||

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः।
अंतरात्मा हि मे शुद्धः तस्मिं श्च बहवो गुणाः॥12||

उत्साहः पौरुषं सत्त्व मानृशंस्यं कृतज्ञता।
विक्रमश्च प्रभावश्च संति वानर राघवे॥13||

चतुर्दश सहस्राणी राक्षसानां जघान यः।
जनस्थाने विना भ्रात्रा शत्रुः कः तस्य नो द्विजेत्॥14||

न स शक्य स्तुलयितुं व्यसनैः पुरुषर्षभ।
अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा॥15||

शरजालांशुमान् शूरः कपे रामदिवाकरः।
शत्रुरक्षोमयं तोयं उपशोषं नयिष्यति॥16||

इति संजल्पमानां तां रामार्थे शोककर्षिताम्।
अश्रुसंपूर्णनयनां उवाच वचनं कपिः॥17||

श्रुत्वैवतु वचो मह्यं क्षिप्र मेष्यति राघवः।
चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम्॥18||

अथवा मोचयिष्यामि त्वां अद्यैव वरानने।
अस्मात् दुःखात् उपारोह मम पृष्ठमनिंदिते॥19||

त्वां हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम्।
शक्ति रस्तिहि मे वोढुं लंका मपि स रावणम्॥20||

अहं प्रस्रवण स्थाय राघवायाद्य मैथिलि।
प्रापयिष्यामि शक्राय हव्यं हुत मिवानलः॥21||

द्रक्ष स्यद्यैव वैदेहि राघवं सह लक्ष्मणम्।
व्यवसाय समायुक्तं विष्णुं दैत्यवथे यथा॥22||

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्।
पुरंदर मिवासीनं नाकराजस्य मूर्थनि॥23||

पृष्ठमारोह मेदेवी मा विकांक्षस्व शोभने।
योगमन्विच्छ रामेण शशांके नेव रोहिणी॥24||

कथयंतीव चंद्रेण सूर्येण च महार्चिषा।
मत्पृष्ठमधिरुह्य त्वं तराssकाशमहार्णवौ॥25||

न हि मे संप्रयातस्य त्वा मितो नयतोs‍ंगने।
अनुगंतुं गतिं शक्ता स्सर्वे लंकानिवासिनः॥26||

यथावाह मिह प्राप्तः तथैवाहमसंशयः।
यास्यामि पश्य वैदेही त्वामुद्यम विहायसम्॥27||

मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम्।
हर्षविस्मित सर्वांगी हनुमंत मथाब्रवीत्॥28||

हनुमन् दूर मध्वानं कथं मां वोढुमिच्छसि।
तदेव खलु ते मन्ये कपित्वं हरियूथप॥29||

कथं वाल्पशरीरस्त्वं मामितो नेतु मिच्छसि।
सकाशं मानवेंद्रस्य भर्तुर्मे प्लवगर्षभ॥30||

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
चिंतयामास लक्ष्मीवान्नवं परिभवं कृतम्॥31||

न मे जानाति सत्त्वं वा प्रभावं वाsसितेक्षणा।
तस्मात् पश्यतु वैदेही यद्रूपं मम कामतः॥32||

इति संचित्य हनुमांस्तदा प्लवगसत्तमः।
दर्शयामास वैदेह्याः स्वरूप मरिमर्दनः॥33||

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः।
ततो वर्थितु मारेभे सीताप्रत्ययकारणात्॥34||

मेरुमंदर संकाशो बभौ दीप्तानलप्रभः।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः॥35||

हरिः पर्वत संकाशः ताम्रवक्त्रो महाबलः।
वज्रदंष्ट्रो नखो भीमो वैदेहीं इदमब्रवीत्॥36||

सपर्वतवनोद्देशां साट्टप्राकार तोरणाम्।
लंका मिमां स नाधां वा नयितुं शक्ति रस्ति मे॥37||

तदवस्थाप्यतां बुद्धि रलं देवि विकांक्षया।
विशोकं कुरु वैदेहि राघवं सह लक्ष्मणम्॥38||

तं दृष्ट्वा भीमसंकाशं उवाच जनकात्मजा।
पद्मपत्रविशालाक्षी मारुत स्यौरसं सुतं॥39||

तवसत्वं बलं चैव विजानामि महाकपे।
वायोरिव गतिं चैव तेजश्चाग्नेरिवाद्भुतम्॥40||

प्राकृतोsन्यः कथं चेमां भूमि मागंतु मर्हति।
उदधे रप्रमेयस्य पारं वानरपुंगव॥41||

जानामि गमने शक्तिं नयने चापि ते मम।
अवश्यं संप्रधा र्याशु कार्यसिद्धि र्महात्मनः॥42||

अयुक्तं तु कपिश्रेष्ठ मम गंतुं त्वयाsनघ।
वायुवेग सवेगस्य वेगो मां मोहयेत्तव॥43||

अहमाकाश मापन्ना ह्युपर्युपरि सागरम्।
प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः॥44||

पतिता सागरे चाहं तिमिनक्रझुषाकुले।
भवेय माशु विवशा यादसामन्नमुत्तमम्॥45||

न च शक्ष्ये त्वया सार्थं गंतुं शत्रुविनाशन।
कळत्रवति संदेहः त्वय्यपि स्यादसंशयः॥46||

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः।
अनुगच्छेयु रादिष्टा रावणेन दुरात्मना॥47||

तैस्त्वं परिवृत श्शूरैः शूल मुद्गर पाणिभिः।
भवेस्त्वं संशयं प्राप्तो मया वीर कळत्रवान्॥48||

सायुधो बहवो व्योम्नि राक्षासास्त्वं निरायुधः।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्॥49||

युध्यमानस्य रक्षोभिः तव तैः क्रूरकर्मभिः।
प्रपतेयं हि ते पृष्ठात् भयार्ता कपिसत्तम॥50||

अथ रक्षांसि भीमानि महंति बलवंति च।
कथंचित् सांपराये त्वां जयेयुः कपिसत्तम॥51||

अथवा युध्यमानस्य पतेयं विमुखस्य ते।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥52||

मां वा हरेयु स्त्वद्दस्ताद्विशसेयुरथापि वा।
अव्यवस्थौ हि दृश्येते युद्धे जयापराजयौ॥53||

अहं वापि विपद्येयं रक्षोभि रभितर्जिता।
त्वत्प्रयत्नो हरिश्रेष्ठ भवे न्निष्फल एव तु॥54||

कामं त्व मसि पर्याप्तो निहंतुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः॥55||

अथवाssदाया रक्षांसि न्यसेयु स्संवृते हि माम्।
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ॥56||

आरंभस्तु मदर्थो यं ततस्तव निरर्थकः।
त्वया हि सह रामस्य महानागमने गुणः॥57||

मयि जीवित मायत्तं राघवस्य महात्मनः।
भातॄणां च महाबाहो तव राज कुलस्य च॥58||

तौ निराशौ मदर्थं तु शोकसंतापकर्शितौ।
सह सर्वर्क्षहरिभिस्त्यक्षतः प्राण संग्रहम्॥59||

भर्तृ भक्तिं पुरस्कृत्य रामादन्यस्य वानर।
न स्पृशामि शरीरं तु पुंसो वानर पुंगव॥60||

यदहं गात्र संस्पर्शं रावणस्य बलाद्गता।
अनीशा किं करिष्यामि विनाथा विवशा सती॥61||

यदि रामो दशग्रीवमिह हत्वा स बांधवम्।
मामितो गृह्य गच्छेत्तत्तस्य सदृशं भवेत्॥62||

श्रुता हि दृष्टा श्च मया पराक्रमा महत्मनस्तस्य रणाविमर्दिनः।
स देवगंधर्वभुजंगराक्षसा भवंति रामेण समा हि संयुगे॥63||

समीक्ष्य तं संयति चित्रकार्मुकम् महाबलं वासवतुल्यविक्रमम्।
स लक्ष्मणं को विषहेत राघवम् हूताशनं दीप्त मिवानिलेरितम्॥64||

स लक्ष्मणं राघव माजिमर्दनम् दिशागजं मत्तमिव व्यवस्थितम्।
स हेत को वानरमुख्य संयुगे युगांत सूर्यप्रतिमं शरार्चिषम्॥65||

स मे हरिश्रेष्ठ स लक्ष्मणं पतिं सयूधपं क्षिप्र मिहोपपादय।
चिराय रामं प्रति शोककर्शिताम् कुरुष्व मां वानरमुख्य हर्षितां॥66||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे सप्तत्रिंशस्सर्गः ॥

|| Om tat sat ||